|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.282. अध्यायः 282
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति तृष्णात्यागस्य सुखसाधनताप्रतिपादकजनकमाण्डव्यसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-282-0x(6358)(76552)
भ्रातरः पितरः पौत्रा ज्ञातयः सुहृदः सुताः।
अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः॥ 12-282-1(76553)
येयमर्थोद्भवा तृष्णा कथमेतां पितामह।
निवर्तयेयं पापानि तृष्णया कारिता वयम्॥ 12-282-2(76554)
भीष्म उवाच। 12-282-3x(6359)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गीतं विदेहराजेन माण्डव्यायानुपृच्छते॥ 12-282-3(76555)
सुसुखं बत जीवामि यस्य मे नास्ति किंचन।
मिथिलायां प्रदीप्तायां न मे दह्यति किंचन॥ 12-282-4(76556)
अर्थाः खलु समृद्धा हि गाढं दुःखं विजानताम्।
असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान्॥ 12-282-5(76557)
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्॥ 12-282-6(76558)
यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते।
तथैव तृष्णा वित्तेन वर्धमानेन वर्धते॥ 12-282-7(76559)
किंचिदेव ममत्वेन यदा भवति कल्पितम्।
तदेव परितापाय नाशे संपद्यते पुनः॥ 12-282-8(76560)
न कामाननुरुध्येत दुःखं कामेषु वै रतिः।
प्राप्यार्थमुपयुञ्जीत धर्मं कामान्विवर्जयेत्॥ 12-282-9(76561)
विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत्।
कृतकृत्यो विशुद्धात्मा सर्वं ज्यजति वै स्वयम्॥ 12-282-10(76562)
उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये।
भयाभये च संत्यज्य भव शान्तो निरामयः॥ 12-282-11(76563)
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखं॥ 12-282-12(76564)
चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम्।
धर्मात्मा लभते कीर्ति प्रेत्य चेह यथासुखम्॥ 12-282-13(76565)
राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः।
पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः॥ ॥ 12-282-14(76566)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यशीत्यधिकद्विशततमोऽध्यायः॥ 282॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|